शिव महिमा स्तोत्र
ऑडियो सुनने के लिए चलाएँ
महिम्नः पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।
अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्
ममाप्येष स्तोत्रे हर निरपवादः परिकारः ॥
अतीतः पन्थानं तव च महिमा वाङ्मनसयोः
अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्यः कतििविधगुणः कस्य विषयः
पदे त्वर्वाचिने पतति न मनः कस्य न वचः ॥
मधुस्फीता वाचः परमममृतं निर्मितवतः
तव ब्रह्मं किं वागपि सुरगुरोर्विस्मयपदम् ।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थेऽस्मिन पुरमथन बुद्धिर्व्यवसिता ॥
त्वैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्
त्रयिवस्तु व्यस्तं तिषृषु गुणभिन्नासु तनुषु ।
अभाव्यानास्मिन् वरद रमणीयामरमणीं
विहन्तुं व्याक्रोशीं विदधता इहैकजडधियः ॥
किमीह किंकायः स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च ।
अतर्कैश्वर्ये त्वय्यानवसर दुःस्थो हटधियः
कुतर्कोऽयं कांश्चित् मुखरयति मोहाय जगत् ॥
अजन्मानो लोकाः किमवयवन्तोऽपि जगतां
अधिष्ठातारं किं भवविधिरनादृत्य भवति ।
नीशो वा कुर्याद् भुवनजनने कः परिकारो
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥
त्रयी सांख्यं योगः पशुपतिमतं वैश्वानरमिति
प्रभिन्ने प्रस्ताने परमिदमदः पाठ्यमिति च ।
रुचीनां वैचित्र्यादृजुकुटिला नानापथजुषां
नृणामेको गम्यस्त्वमसि पयसमर्णव इव ॥
महोक्षः खट्वांगं परशुरजिनं भस्म फणिनः
कपालं चेतीयत्त्व वरद तन्त्रोपकरणम् ।
सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणितां
न हि स्वात्मारमं विषयं मृगत्र्ष्णा भ्रमयति ॥
ध्रुवं कश्चित् सर्वं सकलंपरस्त्वध्रुवमिदं
परोध्रुव्याःअध्रुव्ये जगति गदति व्यस्तविषये ।
समस्तेऽप्येतस्मिन पुरमथन तैर्विस्मिता इव
स्तुवन् जिह्रे्मि त्वां न खलु ननु धृष्टा मुखरता ॥
त्वैश्वर्यं यत्नाद् यदुपरि विरिञ्चिरहरिरधः
परिच्छेतुं यातावनिलमनलस्कन्दवपुषः ।
ततो भक्तिश्रद्धा-भरगुरु-गृणब्द्यां गिरिश यत्
स्वयं तस्थे ताभ्यां तव किमानुवृत्तिर्न फलति ॥
अयत्नादासाद्य त्रिभुवनमवैरव्यातिकरं
दशास्यो यद्बाहूनभृत-रणकण्डू-परवशान् ।
शिरःपद्मश्रेणी-रचितचराणांभोरुहबलैः
स्थिरास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदं ॥
अमुष्य त्वत्सेवा-समधिगतसारं भुजवनं
बलात्कैलासेऽपि त्वदधिवसतौ विक्रमयतः ।
अलब्यापातलेऽप्यलसचलिताङ्गुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः ॥
यदृद्धिं सूत्राम्णो वरद परमोच्चैरपि सतीं
अधश्चक्रे बाणः परिजनविधेयत्रिभुवनः ।
न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोः
न कस्यापि उन्नत्यै भवति शिरस्त्वय्यवनतिः ॥
अकाण्डब्रह्माण्डक्षयचक्रितदेवासुरकृपा
विधेयस्या:असीद् यस्त्रिनयन विषं संहर्तवतः ।
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
विकारोऽपि श्लाघ्यो भुवनभय-भङ्ग-व्यसिनः ॥
असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।
स पश्यन्नीश त्वामितरासुरसाधारणमभूत्
स्मरः स्मार्टव्यात्मा न हि वशिषु पथ्यः परिभवः ॥
महीपादाघाताद् व्रजति सहसां संशयपदं
पदं विष्णोर्भ्राम्यद् भुजपरिघरुग्णग्रहगणम् ।
मूहूर्त्यौर्दौस्थ्यं यात्यनिभृतजटाटाडितटाटाः
जगद्रक्षाय त्वं नटसि ननु वामैव विभूताः ॥
वियद्व्यापी तारा-गण-गुणित-फेनोद्गम-रुचिः
प्रवाहो वारां यः पृथ्सतलघुदृष्टः शिरसि ते ।
जगद्द्वीपाकारं जलधिवालयं तेना कृतमिति
अनेनैवोन्नेयं धृतमहिमा दिव्यं तव वपुः ॥
रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथाङ्गेन्द्र चन्द्रार्कौ रथचरणपाणिः शर इति ।
दिधक्षोस्ते कोऽयं त्रिपुरात्र्णमाडम्बर विधिः
विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥
हरिस्ते सहस्रं कमल बलिमाधाय पदयोः
यदेकोनं तस्मिन् निजमुदहरन्नेत्रकमलं
गतः भक्त्युद्रेकः परिणतिमसौ चक्रवपुः
त्रयाणां रक्षायै त्रिपुरहरा जागर्ति जगताम् ॥
क्रतौ सुप्ते जाग्रत त्वमसि फलयोगे क्रतुमतां
क्व कर्म प्रद्वस्तं फलति पुरुषाराधनमृते ।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदाना प्रतिभुवं
श्रुतौ श्रद्धां बध्वा दृढपरिकारः कर्मसु जनः ॥
क्रीयादक्षो दक्षः क्रतुपतिरधीशस्तनुभृताम्
ऋषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः ।
क्रतुभ्रंशस्तवतः क्रतुफलविधानव्यसिनः
ध्रुवं कर्तुं श्रद्धाविधुरमभिचाराय हि मखा: ॥
प्रजानाथं नाथं प्रसभमभिकं स्वां दुहितरं
गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा ।
धनुष्पाणेर्यातं दिवमपि सपत्राकृतमुम्
त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥
स्वलावण्याशंसा धृतधनुषमह्नाय त्रिणवत्
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।
यदि स्त्रीणं देवी यमनीरता-देहार्थ-घटनात्
अवैति त्वामद्धा वट वरद मुधा युवतयः ॥
श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः
चिताभस्मालेपः श्रगपि नरिकोटिपरिकरः ।
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं
तथापि स्मर्तीनां वरद परमं मङ्गलमसि ॥
मनः प्रत्यक्ष चित्ते सविदमविधायत्तमरुत्
प्रहृष्टद्रोमाणः प्रमदासलिलोत्सङ्गति-दृशः
यदालोक्याह्लादं ह्रद इव निमज्यामृतमे
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् ॥
त्वमार्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवाहः
त्वमापस्त्वं व्योम त्वमु धरिणीरात्मा त्वमिति च ।
परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं
न विद्मस्तत्त्वं वयमिह तु यत् त्वं न भवसि ॥
त्रयीं त्रो वृत्तिस्त्रिभुवनमथो त्रीनपि सुरान्
काराद्यैर्वर्णैस्त्रिभिरभिदधत तीर्णविक्रितिः
तुरीयं ते धाम ध्वनिभिरवरुन्धामणुभिः
समस्तव्यस्तं त्वां शरणद ग्रणात्योमिति पदम् ॥
भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहान्
तथा भीमे शानाविति यदभिधानाष्टकमिदम्
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रियायास्मैधाम्ने प्रणिहितनामयोऽस्मि भवते ॥
शिव महिमा स्तोत्र के बारे में
शिव महिम्न स्तोत्र एक प्रसिद्ध स्तोत्र है जो स्वर्गीय गंधर्व पुष्पदंत द्वारा भगवान शिव की स्तुति में रचित है। यह स्तोत्र शिव की महिमा, कथाएं और दिव्य गुणों का वर्णन करता है, जिसमें गहरी श्रद्धा और प्रशंसा प्रकट होती है। यह अपने काव्यात्मक उत्कृष्टता और आध्यात्मिक प्रभाव के लिए प्रसिद्ध है।
अर्थ
यह स्तोत्र शिव की सर्वव्यापित्वा, उनके ब्रह्मांडीय नृत्य, सृष्टिकर्ता, संहारक और पालक के रूप में भूमिका, और उनके प्रकृति के विरोधाभासी गुण जैसे कठोर और दयालु दोनों होने की महिमा करता है। शिव के उस नृत्य का जीवंत वर्णन करता है जिसने ब्रह्मांड को हिला दिया और देवताओं व भक्तों की रक्षा में उनकी भूमिका को दर्शाता है।
लाभ
- सभी प्रकार के दुःख और बाधाएं दूर करता है
- आध्यात्मिक ज्ञान और आंतरिक शांति प्रदान करता है
- नकारात्मक ऊर्जा और खतरों से सुरक्षा करता है
- भक्ति को बढ़ावा देता है और विश्वास को मजबूत करता है
- मोक्ष और शिव के साथ एकता की ओर ले जाता है
महत्व
शिव महिम्न स्तोत्र भगवान शिव के भक्तों में अत्यंत पूजनीय है और अक्सर उनकी दिव्य कृपा प्राप्ति के लिए इसे पढ़ा जाता है। ऐसा माना जाता है कि इसके पाठ से आशीर्वाद प्राप्त होता है, विपत्तियों से सुरक्षा मिलती है, और गहरा आध्यात्मिक विकास होता है। इस स्तोत्र की महिमा को श्री रामकृष्ण परमहंस जैसे संतों ने भी इसकी गहरी साधना और आध्यात्मिक जागरण लाने की क्षमता के लिए प्रशंसा की है।