VividhGyan Logo

श्री धूमावती कवच

श्रीपार्वत्युवाच |

धूमावत्यर्चनं शम्भो श्रुतं विस्तरतो मया |
कवचं श्रोतुमिच्छामि तस्या देव वदस्व मे || 1 ||

श्रीभैरव उवाच |

शृणु देवि परं गुह्यं न प्रकाश्यं कलौ युगे |
कवचं श्रीधूमावत्याः शत्रुनिग्रहकारकम् || 2 ||

ब्रह्माद्या देवि सततं यद्वशादरिघातिनः |
योगिनो भवच्छत्रुघ्ना यस्या ध्यानप्रभावतः || 3 ||

ओं अस्य श्रीधूमावतीकवचस्य पिप्पलाद ऋषिः अनुष्टुप् छन्दः श्रीधूमावती देवता धूं बीजं स्वाहा शक्तिः धूमावती कीलकं शत्रुहनने पाठे विनियोगः |

कवचम् |

ओं धूं बीजं मे शिरः पातु धूं ललाटं सदा:'वतु |
धूमा नेत्रयुगं पातु वती कर्णौ सदा:'वतु || 4 ||

दीर्घा तूदरमध्ये तु नाभिं मे मलिनाम्बरा |
शूर्पहस्ता पातु गुह्यं रूक्षा रक्षतु जानुनी || 5 ||

मुखं मे पातु भीमाख्या स्वाहा रक्षतु नासिकाम् |
सर्वविद्या:'वतु कण्ठं विवर्णा बाहुयुग्मकम् || 6 ||

चञ्चला हृदयं पातु धृष्टा पार्श्वे सदा:'वतु |
धूमहस्ता सदा पातु पादौ पातु भयावहा || 7 ||

प्रवृद्धरोमा तु भृशं कुटिला कुटिलेक्षणा |
क्षृत्पिपासार्दिता देवी भयदा कलहप्रिया || 8 ||

सर्वाङ्गं पातु मे देवी सर्वशत्रुविनाशिनी |
इति ते कथितं पुण्यं कवचं भुवि दुर्लभम् || 9 ||

न प्रकाश्यं न प्रकाश्यं न प्रकाश्यं कलौ युगे |
पठनीयं महादेवि त्रिसन्ध्यं ध्यानतत्परैः |
दुष्टाभिचारो देवेशि तद्गात्रं नैव संस्पृशेत् || 10 ||

इति भैरवीभैरवसंवादे धूमावती कवचं सम्पूर्णम् |

भाषा बदलें: