VividhGyan Logo

श्री बृहस्पति कवचम्

अस्य श्रीबृहस्पतिकवचस्तोत्रमन्त्रस्य ईश्वर ऋषिः | अनुष्ठुप् छन्दः | बृहस्पतिर्रेव्यताया | अं बीजं | श्रीं शक्तिः | क्लीं कीलिकं | मम बृहस्पतिप्रसादसिद्धार्थे जपयिनीयोगः |

करणन्यासः ||

गां अंगुष्ठाभ्यां नमः | गीं तर्जनिब्यां नमः | गूं मध्यामाभ्यां नमः | गैं अनामिकाभ्यां नमः | गौं कनिष्ठिकाभ्यां नमः | गः करतालकरप्रुष्ठाभ्यां नमः ||

आंगन्यासः ||

गां हृदयाय नमः | गीं सिरसे स्वाहा | गूं शिखायै वषट् | गैं कवचाय हुम् | गौं नेत्रत्रयाय वैषट् | गः अस्त्राय फट् | भूर्भुवः स्वरोमिति दिश्बन्धः ||

ध्यानम्

तप्तकाञ्चनवर्णाभं चतुर्भुजसामन्वितं
दण्डाक्षसूत्रमालां च कमण्डलुवरान्वितम् |
पीताम्बरधराम् देवं पीतगन्धानुलेपनम्
पुष्परागमयं भूष्णुं विचित्रमकूटोज्ज्वलम् ||

स्वर्णाश्वरथमारूढं पीतध्वजसुशोभितं | मेरुं प्रदक्षिणं कृत्वा गुरुदेवं समर्चयेत् ||

अभीष्टवरदं देवं सर्वज्ञं सुरपूजितम् |
सर्वकार्यार्थसिद्धार्थं प्रणमामि गुरुं सदा ||

कवचम्

बृहस्पतिः सिरः पातु ललाटं पातु मे गुरुः |
कर्णौ सुरगुरुः पातु नेत्रे मे अभिष्टदायकः || १ ||

नासं पातु सुराचार्यः जिव्हां मे वेदपारगः | मुखं मे पातु सर्वज्ञो भुजौ पातु शुभप्रदः || २ ||

करौ वज्रधरो पातु वक्षः मे पातु गीष्पति | स्तनौ मे पातु वागीशः कुक्सिं मे शुभलक्ष्णः || ३ ||

नाभिं पातु सुनीतिज्ञः कटीं मे पातु सर्वदा | उरुं मे पातु पुण्यात्मा जङ्घे मे ज्ञानदः प्रभुः || ४ ||

पादौ मे पातु विश्वात्मा सर्वाङ्गं सर्वदा गुरुः | य इदं कवचं दिव्यं त्रिसन्ध्यसु पठेन्नरः || ५ ||

सर्वांछकांमांनवाप्नोति सर्वत्र विजयī भवेत् | सर्वत्र पूज्यो भवति वाक्पतिश्च प्रसादतः || ६ ||

इति ब्रह्मवैवर्तपुराणे उत्तरखण्डे बृहस्पतिकवचः |

भाषा बदलें: