मातंगी कवच
श्री पार्वत्युवाच
देवदेव महादेव सृष्टिसंहारकाकारक |
मातंग्या: कवचं ब्रूहि यदि स्नेहोऽस्ति ते मयि || 1 ||
शिव उवाच
अत्यन्तगोपनं गुह्यं कवचं सर्वकामदं |
तव प्रियया मया:'ख्यातं नान्येषु कथ्यते शुभे || 2 ||
शपथं कुरु मे देवी यदि किंचित्प्रकाशसे |
अनया सदृशी विद्या न भूता न भविष्यति || 3 ||
ध्यानं
शवासनां रक्तवस्त्रां युवतीं सर्वसिद्धिदाम् |
एवं ध्यान्त्वा महादेवीं पठेत्कवचमुत्तमम् || 4 ||
कवचं
उच्छिष्टं रक्षतु शिर: शिखां चण्डालिनी तत: |
सुमुखी कवचं रक्षेच्च देवी रक्षतु चक्षुषी || 5 ||
महापिशाचिनी पायान्नासिकां ह्रीं सदा:'वतु |
ठ: पातु कण्ठदेशं मे ठ: पातु हृदयं तथा || 6 ||
ठो भुजौ बाहुमूलें च सदा रक्षतु चण्डिका |
ऐं च रक्षतु पादौ मे सौ: कुष्किं सर्वत: शिवा || 7 ||
ऐं ह्रीं कटिदेशं च आं ह्रीं संधिषु सर्वदा |
ज्येष्ठमातंग्यांगुलिर्मे अंगुल्यग्रे नमामि च || 8 ||
उच्छिष्टचण्डाली मां पातु त्रिलोक्यस्य वशंकारी |
शिवे स्वाहा शरीरं मे सर्वसौभाग्यदायिनी || 9 ||
उच्छिष्टचण्डाली मातंगी सर्ववशंकारी नम: |
स्वाहा स्तनद्वयं पातु सर्वशत्रुविनाशिनी || 10 ||
अत्यन्तगोपनं देवी देवै: अपि सुदुर्लभं |
भ्रष्टेभ्य: साधकेभ्य: अपि द्रष्टव्यम् न कदाचन || 11 ||
दत्तेन सिद्धिहानी: स्यात्सर्वथा न प्रकाश्याताम् |
उच्छिष्टेना बलिं दत्वा शनौ वा मंगलें निशि || 12 ||
रजस्वलाभगं स्पृष्ट्वा जपेन्मंत्रं च साधक: |
रजस्वलाया वस्त्रेण होमं कुर्यात्सदा सुधी: || 13 ||
सिद्धविद्या इतो नास्ति नियमो नास्ति कश्चन |
अष्टसहस्रं जपेन्मंत्रं दशांशं हवनादिकम् || 14 ||
भूर्जपत्रे लिखित्वा च रक्तसूत्रेण वेष्टयेत् |
प्राणप्रतिष्ठामंत्रेण जीवण्यासं समाचरेत् || 15 ||
स्वर्णमध्ये तु संस्थाप्य धारयेत्दक्षिणे करे |
सर्वसिद्धिर्भवेत्तस्य अचिरात्पुत्रवान्भवेत् || 16 ||
स्त्रीभिर्वामकरे धार्यम् बहुपुत्रा भवेत्तदा |
वंद्या वा काकवंद्या वा मृतवत्सा च सांगना || 17 ||
जीवद्वत्सा भवेत्सापि समृद्धिर्भवति ध्रुवम् |
शक्तिपूजां सदा कुर्यात्शिवाबलिं प्रदापयेत् || 18 ||
इदं कवचमज्ञान्त्वा मातंगी यो जपेच्छदा |
तस्य सिद्धिर्न भवति पुरश्चरणलक्षतः || 19 ||
इति श्रीरुद्रयामले तंत्रे मातंगी सुमुखी कवचं समाप्तम् ||