केतु कवचम्
ध्यानम्
धूम्रवर्णं ध्वजाकारं द्विभुजं वरदांगदम्
चित्राम्बरधराम् केतुम् चित्रगंधानुलेपनम् |
वैकुण्ठाभरणं चैव वैकुण्ठ मकटं फणिम्
चित्रं कफाधिकरसं मेरुं चैवप्रदक्षिणम् ||
केतुं करालवदनं चित्रवर्णं किरीटिनम् |
प्रणमामि सदा देवं ध्वजाकारं ग्रहेश्वरम् ||
कवचम्
चित्रवर्णः शिरः पातु फालं मे धूम्रवर्णकः |
पातु नेत्रे पिंगलाक्षः श्रुती मे रक्तलोचनः ||
घ्राणं पातु सुवर्णाभो द्विभुजं सिंहिकासुतः |
पातु कण्ठं च मे केतुः स्कन्धौ पातु ग्रहाधिपः ||
बाहू पातु सुरश्रेष्ठः कुक्सिं पातु महोरगः |
सिंहासनः कटिं पातु मध्यं पातु महासुरः ||
ऊरू पातु महासीरषो जानुनि च प्रोक्षणः |
पातु पादौ च मे रौद्रः सर्वाङ्गं रविमर्दकः ||
इदं च कवचं दिव्यं सर्वरोगविनाशनम् |
सर्वदुःखविनाशं च सत्यमेत्त्वन्नसंसयः ||
॥ इति पद्मपुराणे केतु कवचम् ॥
भाषा बदलें: