शिव प्रातः स्मरण स्तोत्रम्
प्रातः स्मरामि भवभीति हरं सुरेशं गंगा धरं वृषभ वाहनं अम्बिकेशं
खट्वांग शूल वरद अभय हस्तं ईशं संसार रोग हरं औषधं अद्वितीयं ॥1॥
प्रातर नमामि गिरिशं गिरिजार्धदेहं सर्ग स्थिति प्रलय कारणं आदि देवं
विश्वेशरं जित विश्व मनोभिरमं संसार रोग हरं औषधं अद्वितीयं ॥2॥
प्रातर भजामि शिवं एकं अनंतं आद्यं वेदान्त वेद्यं अनघं पुरुषं महंतं
नामादिभेद रहितं षड्भावशून्यं संसार रोग हरं औषधं अद्वितीयं ॥3॥
प्रातः समुत्थाय शिवं विचिन्त्य श्लोकास्त्रयं येनुदिनं पठन्ति
ते दुःखजातं बहुजनमसंचितं हित्वा पदं यान्ति तदेव शंभोः ॥4॥
भाषा बदलें: