VividhGyan Logo

सप्तश्लोकी दुर्गा स्तोत्र

॥ अथ सप्तश्लोकी दुर्गा ॥

शिव उवाच:
देवी त्वं भक्तसुलभे देवी त्वं भक्तसुलभे ।
कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥
देव्युवाच:
श्रुणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् ।
मया तवैव स्नेहेनाप्यम्बस्तुति: प्रकाश्यते ॥

विनियोग:
ॐ अस्य श्री दुर्गासप्तश्लोकीस्तोत्रमन्त्रस्य नारायण ऋषिः, अनुष्टुप छन्दः, श्रीमहाकाली महालक्ष्मी महासरस्वत्यो देवताः, श्रीदुर्गाप्रीत्यर्थं सप्तश्लोकिदुर्गापाठे विनियोगः ।

ॐ ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृतमतिमतीव शुभान् ददासि ।
दारिद्र्यदुःखभयहारिणि त्वदन्या
सर्वोपकारकारणाय सदार्द्रचित्ता ॥

सर्वमंगलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरी नारायणी नमोस्तुते ॥

शरणागतदीनार्थपरित्राणपरायणे ।
सर्वसार्यतिहरे देवी नारायणी नमोस्तुते ॥

सर्वस्वरूपे सर्वेऽशे सर्वशक्तिसमाविते ।
भयैस्त्राही नो देवी दुर्गे देवी नमोस्तुते ॥

रोगानशोषाणपहंसी तुष्टा रोष्टा
तु कामान् सकलानभिष्टान् ।
त्वामाश्रितानां न विपन्नराणां
त्वामाश्रिताह्माश्रयतान्प्रयान्ति ॥

सर्वबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरी ।
एवमेव त्वया कायमस्मद्वैरिनाशनम् ॥

॥ इति श्रीसप्तश्लोकी दुर्गा सम्पूर्णम् ॥

भाषा बदलें: