प्रातः स्मरण दैनिक उपासना श्लोक
कराग्रे वसते लक्ष्मीः करमध्द्ये सरस्वती।
करमूले तु गोविन्दः प्रभाते करदर्शनम्॥
समुद्रवसने देवि! पर्वतस्तनमंडले।
विष्णुपत्नि! नमस्तुभ्यं पादस्पर्शं क्षमस्व मे॥
ब्रह्मा मुरारिस्त्रिपुरान्तकारी
भानुः शशिभूमिसुतो बुधश्च।
गुरुश्च शुक्रः शनिराहुकेतवः
कुर्वन्तु सर्वे मम सुप्रभातम्॥
सनत्कुमारः सनकः सनन्दनः
सनातनोऽप्यासुरिपिङ्गलौ च।
सप्त स्वराः सप्त रसातलानि
कुर्वन्तु सर्वे मम सुप्रभातम्॥
सप्तार्णवाः सप्त कुलाचलाश्च
सप्तर्षयो द्वीपानानि सप्त।
भूरादिकृत्वा भुवनानि सप्त
कुर्वन्तु सर्वे मम सुप्रभातम्॥
पृथ्वी सगंधा सरसास्तथा अपः
स्पर्शी च वायुः ज्वलितं च तेजः।
नभः सशब्दं महता सहैव
कुर्वन्तु सर्वे मम सुप्रभातम्॥
प्रातः स्मरणं तदा यो
विदित्वा सदरतः पठेत्
स सम्यग् धर्मनिष्ठः स्यात्
संस्मृत सखण्ड भारतः॥
भाषा बदलें: