शनि वज्र पंजर कवचम्
नीलाम्बरो नीलवपु: किरीटी
गृध्रस्थितास्त्रकरो धनुष्मान् ।
चतुर्भुज: सूर्यसुत: प्रसन्न:
सदा ममस्याद्वरद: प्रशान्त: ॥
ब्रह्मा उवाच
श्रुणुध्वं ऋषय: सर्वे शनिपीडाहरणं महत् ।
कवचं शनिराजस्य सौैरिदमअनुत्तमं ॥
कवचं देवतावासं वज्रपञ्जर संगकं ।
शनैश्चर प्रियकरं सर्वसौभाग्यदायकं ॥
श्री शनिवज्रपञ्जर कवचम्
ॐ श्री शनैश्चर: पातु भालं मे सूर्यनन्दन: ।
नेत्रे छायात्मज: पातु पातु कर्णौ यमानुज: ॥ 1 ॥
नासां वैवस्वत: पातु मुखं मे भास्कर: सदा ।
स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुज: ॥ 2 ॥
स्कन्धौ पातु शनिश्चैव करौ पातु शुभप्रद:।
वक्ष: पातु यमभ्राता कुक्षिं पात्वसितस्तथा ॥ 3 ॥
नाभिं ग्रहपति: पातु मंद: पातु कटीं तथा ।
ऊरू ममान्तक: पातु यमो जानुयुगं तथा ॥ 4 ॥
पादौ मंदगति: पातु सर्वाङ्गं पातु पिप्पल:।
अङ्गोपाङ्गानि सर्वाणि रक्षेण मे सूर्यनन्दना: ॥ 5 ॥
फलश्रुति:
इत्येतत्कवचं दिव्यं पठेत्सूर्यसुतस्य य:।
न तस्य जयते पीड़ा प्रियतो भवति सूर्यज: ॥
व्ययजनमद्वितीयस्थो मृत्युस्थानगतोपिवा।
कलत्रस्थो गतोऽपि सुप्रीतस्तु सदा शनि: ॥
अष्टमस्थो सूर्यसुते व्यये जन्मद्वितीयगे ।
कवचं पठते नित्यं न पीड़ा जयते कदाचित् ॥
इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा ।
द्वादशाश्टमजन्मस्थदोषान्नाशयते सदा ।
जनमलग्नस्थितान दोषान्सर्वान्नाशयते प्रभु: ॥
इति श्री ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे शनिवज्रपञ्जर कवचं सम्पूर्णम् ॥