देवी चंडी कवचम्
ॐ नमः चण्डिकायै
न्यासः
अस्य श्री चण्डी कवचस्य | ब्राह्मा ऋषिः | अनुस्तुप् छन्दः |चामुण्डा देवता | अंगन्यासोक्त मातरः बीजम् | नवावरणो मन्त्रशक्ति | दिग्बन्ध देवताः तत्त्वम् | श्री जगदम्बा प्रियार्थे सप्तशती पाठाङ्गतेन जपे विनियोगः ||
ॐ नमः चण्डिकायै
मार्कण्डेय उवाच |
ॐ यद्गुह्यम् परमं लोके सर्वरक्षाकरं नराणाम् |
यन्न कस्यचिताख्यातं तन्मे ब्रूहि पितामह || 1 ||
ब्रह्मोवाच |
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् |
देव्यास्तु कवचं पुण्यम् तच्छृणुष्व महामुने || 2 ||
प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी |
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् || 3 ||
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च |
सप्तमं कालरात्रिति महागौरिति चाष्टमम् || 4 ||
नवमं सिद्धिदात्री च नवदुर्गा: प्रवकीर्तिता ||
...
भाषा बदलें: