VividhGyan Logo

सूर्याष्टकम्

आदि देव नमस्तुभ्यम् प्रसादं माम् भास्कर ।
दिवाकर नमस्तुभ्यम् प्रभाकर नमोस्तुते । 1 ।

सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् ।
श्वेतपद्मधारणं देवान् तं सूर्यं प्रणमाम्यहम् । 2 ।

लोहितं रथमारूढं सर्वलोकपितामहम् ।
महापापहारणं देवान् तं सूर्यं प्रणमाम्यहम् । 3 ।

त्रैगुण्यं च महाशूरं ब्रह्मा विष्णु महेश्वरम् ।
महापापहारणं देवान् तं सूर्यं प्रणमाम्यहम् । 4 ।

बृंहितं तेज: पुण्जं च वायुमाकाशमेव च ।
प्रभुञ्च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् । 5 ।

बन्धुकपुष्पसद्काशं हर्कुण्डलभूषितम् ।
एकचक्रधारणं देवान् तं सूर्यं प्रणमाम्यहम् । 6 ।

तं सूर्यं जगत्कर्तारं महातेज: प्रदीपनम् ।
महापापहारणं देवान् तं सूर्यं प्रणमाम्यहम् । 7 ।

तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदं ।
महापापहारणं देवान् तं सूर्यं प्रणमाम्यहम् । 8 ।

भाषा बदलें: