कृष्ण प्रेमयी राधा - युगल अष्टकम्
कृष्णप्रेममयी राधा राधाप्रेम मयो हरि: ।
जीवनेन धनें नित्य राधाकृष्णगतिर्मम् ॥ 1 ॥
कृष्णस्य द्रविणं राधा राधाय: द्रविणं हरि: ।
जीवनेन धनें नित्य राधाकृष्णगतिर्मम् ॥ 2 ॥
कृष्णप्राणमयी राधा राधाप्राणमयो हरि: ।
जीवनेन धनें नित्य राधाकृष्णगतिर्मम् ॥ 3 ॥
कृष्णद्रवमयी राधा राधाद्रवमयो हरि: ।
जीवनेन धनें नित्य राधाकृष्णगतिर्मम् ॥ 4 ॥
कृष्णगेहे स्थित राधा राधा गेहे स्थिति हरि: ।
जीवनेन धनें नित्य राधाकृष्णगतिर्मम् ॥ 5 ॥
कृष्णचित्तस्थित राधा राधाचित्तस्थितो हरि: ।
जीवनेन धनें नित्य राधाकृष्णगतिर्मम् ॥ 6 ॥
नीलांबरधार राधा पीतांबरो धरो हरि: ।
जीवनेन धनें नित्य राधाकृष्णगतिर्मम् ॥ 7 ॥
वृन्दावनेश्वरी राधा कृष्णो वृन्दावनेश्वर: ।
जीवनेन धनें नित्य राधाकृष्णगतिर्मम् ॥ 8 ॥
भाषा बदलें: